विद्वद्भिरागमपरैर्विवृतं कथञ्चि-
च्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः ।
श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं
गूठार्थमेष निधिमन्त्रगणं बिभर्ति ॥

मल्लिनाथः }} विद्वद्भिरिति ॥ एषोऽद्रिः श्रेयान् श्रेष्ठः द्विजातिर्ब्राह्मण इव आगमो निधिकल्पो, मन्त्रशास्त्रं च स एव परं प्रधानं येषां तैरागमपरैर्विद्वद्भिर्निधीनां मन्त्राणां च साधनविधानज्ञैः कथंचिद्विवृतं स्वरूपतः प्रकाशितम् । नास्ति निश्चिता इदमित्थमिति निश्चयात्मिका धीर्येषां तैरनिश्चितधीभिरन्यैरशास्त्रज्ञैः श्रुत्वाऽपि इह निधिरस्ति, ईदृङ्महिमा असौ मन्त्र इति चाप्तमुखादाकर्ण्यापि दुर्ग्रहं दुःसाधनम् । अघानि दुःखान्येनांसि च हन्तुं दक्षं समर्थम् । `दुःखैनोव्यसनेष्वधम्` इति वैजयन्ती । गूढः संवृतोऽर्थो धनं, अभिधेयं च यस्मिंस्तं गूढार्थम् । निधयो मन्त्रा इव, अन्यत्र निधय इव मन्त्रास्तेषां गणं बिभर्ति । द्विजातिर्मन्त्रगणमिव निधिगणमेष बिभर्तीत्युपमार्थः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
वि द्व द्भि रा रै र्वि वृ तं ञ्चि
च्छ्रु त्वा पि दु र्ग्र नि श्चि धी भि न्यैः
श्रे या न्द्वि जा ति रि न्तु घा नि क्षं
गू ठा र्थ मे नि धि न्त्र णं बि र्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.