Loading data... On slow networks this could take a few minutes.
100%

वनस्पतिस्कन्धनिषण्णबाल-
प्रवालहस्ताः प्रमदा इवात्र ।
पुष्पेक्षणैलम्भितलोचकैर्वा
मधुव्रतव्रातवृतैर्व्रतत्यः ॥

मल्लिनाथः वनस्पतीति ॥ अत्राद्रौ वनस्पतयो वृक्षाः । `वनस्पतिर्वृक्षमात्रे विनापुष्पफलद्रुमे` इति विश्वः । तेषां स्कन्धेषु प्रकाण्डेषु, अंसेषु च निषण्णाः सक्ता बालप्रवाला बालपल्लवा हस्ता इव यासां तास्तथोक्ताः । मधूनि व्रतयन्ति भुञ्जते इति मधुव्रता मधुपास्तेषां व्रातेन वृन्देन वृतैश्छन्नैः । अत एव लम्भिताः प्रापिता लोचकास्तारकाणि, कज्जलानि च यैस्तैर्वा । तैरिव स्थितरित्युत्प्रेक्षा । इवार्थे वाशब्दः तद्वदुत्प्रेक्षायां चोक्तः । `लोचको मांसपिण्डे स्यादक्षितारे च कज्जले` इति विश्वः । पुष्पैरीक्षणैरिव पुष्पेक्षणैरुपलक्षिता व्रतत्यो लताः । प्रमदा इव लक्ष्यन्त इति शेषः । `न प्रसिद्धे क्रियाध्याहारदोषः` इत्याह वामनः । लिङ्गाध्याहारवदिति
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्प ति स्क न्ध नि ण्ण बा
प्र वा स्ताः प्र दा वा त्र
पु ष्पे क्ष णै म्भि लो कै र्वा
धु व्र व्रा वृ तै र्व्र त्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.