अयमतिजरठाः प्रकामगुर्वी-
रलघुविलम्बिपयोधरोपरुद्धाः ।
सततमसुगतामगम्यरूपाः
परिणतदिक्करिकास्तटीर्बिभर्ति ॥

मल्लिनाथः अयमिति ॥ अयं गिरिः अतिजरठा अतिकठिनाः, अतिजरतीश्च । `जरठः कठिने जीर्णे` इति वैजयन्ती । प्रकामं गुर्वीः श्रेष्ठाः, स्थौल्याद्दुर्भराश्व प्रकामगुर्वीः । `गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे` इति शब्दार्णवः । विस्पष्टपटुवत् `मयूर व्यंसकादयश्च` (अष्टाध्यायी २.१.७२ ) इति समासः । अलघुभिर्विलम्बिभिर्लम्बमानैः&#३२; पयोधरैर्मेघैः, स्तनैश्च । `स्त्रीस्तनाब्दौ पयोधरौ` इत्यमरः। उपरुद्धा आवृताः निबद्धाः सततं सर्वदाऽसुमतां प्राणभृतामगम्यरूपा अत्युन्नतत्वाद्दुरारोहस्वरूपाः, अन्यत्र वृद्धत्वाद्गमनानर्ह विग्रहाः । `त्यजेदन्त्यकुलोत्पन्नां वृद्धां स्त्रीं कन्यकां तथा` इति गमननिषेधादिति भावः। परिणतास्तिर्यग्दन्तप्रहारिणो दिक्करिणो दिग्गजा यासु ताः परिणतदिक्करिकाः। `तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः` इति हलायुधः । `इनः स्त्रियाम्` (अष्टाध्यायी ५.४.१५२ ) इति समासान्तः कप्प्रत्ययः । अन्यत्र परिणताः किणीभूता दिशो दन्तक्षतविशेषाः करिकाः, नखव्रणाश्च यासां ताः । `दिग्दष्टे वर्तुलाकारे करिका नखरेखिका` इति वैजयन्ती । तटीर्बिभर्ति । अत्र प्रकृततटीविशेषणमहिम्ना अप्रकृतवृद्धाङ्गनाप्रतीतेः समासोक्तिः। पुष्पिताग्रा वृत्तमुक्तम्
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
ति ठाः प्र का गु र्वी
घु वि म्बि यो रो रु द्धाः
सु ता म्य रू पाः
रि दि क्क रि का स्त टी र्बि र्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.