Loading data... On slow networks this could take a few minutes.
100%

धूमाकारं दधति पुरः सौवर्णे
वर्णेनाग्नेः सदृशि तटे पश्यामी ।
श्यामीभूताः कुसुमसमूहोऽलीनां
लीनामालीमिह तरवो बिभ्राणाः ॥

मल्लिनाथः धूमेति ॥ इहाद्रौ पुरोऽग्रे वर्णेनाग्नेः सदृशि समाने । अग्निसमानवर्ण इत्यर्थः । सौवर्णे सुवर्णविकारे तटे कुसुमसमूहे लीनां स्थिताम् । `ल्वादिभ्यः` (अष्टाध्यायी ८.२.४४ ) इति निष्ठानत्वम् । अलीनां भृङ्गाणामालीमावलीं बिभ्राणा अत एव श्यामीभूता अमी तरवो धूमाकारं धूमसाम्यं दधति । त्वं पश्य । स्वर्णतटमग्निवद्भाति, श्यामास्तरवो धूमवद्भान्तीत्युपमा । जलधरमाला वृत्तम् । `अब्ध्यङ्गैः* स्थाज्जलधरमाला म्भौ स्मौ` इति लक्षणात्
छन्दः जलधरमाला [१२: मभसम]
छन्दोविश्लेषणम्
१० ११ १२
धू मा का रं ति पु रः सौ र्णे
र्णे ना ग्नेः दृ शि टे श्या मी
श्या मी भू ताः कु सु मू हो ऽली नां
ली ना मा ली मि वो बि भ्रा णाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.