उच्चैमहारजतराजिविराजितासौ
दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
अभ्येति भस्मपरिपाण्डुरितस्मरारे-
रुद्वह्निलोचनललामललाटलीलाम् ॥

मल्लिनाथः उच्चैरिति ॥ इहाद्रौ सान्द्रया सुधया लेपविशेषेणामृतेन वा सवर्णा समानवर्णा । `ज्योतिर्जनपद-` (अष्टाध्यायी ६.३.८५ ) इत्यादिना समानस्य सादेशः । `लेपभेदेऽमृते सुधा` इति वैजयन्ती । महारजतराजिविराजिता काञ्चनरेखाशोभिता असौ पुरोवर्तिनी उच्चैरुन्नता दुर्वर्णभित्ती रजतभित्तिः । `महारजतकाञ्चने` इति,`दुर्वणं रजतं रूप्यम्` इति चामरः । भस्मना परिपाण्डुरितस्य स्मरारेरुद्वह्नि उद्गतार्चिलोचनमेव ललामं भूषणं यस्य तस्य ललाटस्य लीलां शोभामभ्येति भजतीति निदर्शनालंकारः । `ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु` इत्यमरः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
च्चै हा रा जि वि रा जि ता सौ
दु र्व र्ण भि त्ति रि सा न्द्र सु धा र्णा
भ्ये ति स्म रि पा ण्डु रि स्म रा रे
रु द्व ह्नि लो ला ला ली लाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.