Loading data... On slow networks this could take a few minutes.
100%

इतस्ततःऽस्मिन्विलसन्ति मेरोः
समानवप्रेमणिसानुरागाः ।
स्त्रियशच पत्यौ सुरसुन्दरीभिः
समा नवप्रेमणिसानुरागाः ॥

मल्लिनाथः इत इति ॥ मेरोः समानवप्रे तुल्यप्रस्थे अत एवास्मिन्नद्रावितस्ततो मणिसानुरागा रत्नतटकान्तयो विलसन्ति प्रसरन्ति । किंच नवं प्रेम यस्य तस्मिन्नवप्रेमणि पत्यौ अनुरागेण सह वर्तन्त इति सानुरागाः सुरसुन्दरीभिः समाः सरूपाः स्त्रियश्चेतस्ततो विसलन्ति क्रीडन्ति ।अन्योन्यमनुरागिणोऽनुरूपाश्चेह विलासिनस्तदनुरूपाणि च विहारस्थलानि सन्तीति भावः
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२
स्त तः ऽस्मि न्वि न्ति मे रोः
मा प्रे णि सा नु रा गाः
स्त्रि त्यौ सु सु न्द री भिः
मा प्रे णि सा नु रा गाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.