Loading data... On slow networks this could take a few minutes.
100%

एकत्रस्फटिकतटांशुभिन्ननीरा
नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते
वैदग्धीमिह सरितः सुरापगायाः ॥

मल्लिनाथः एकत्रेति ॥ एकत्र एकस्मिन्भागे स्फटिकस्य यत्तटं तस्यांशुभिर्विभिन्ननीरा मिश्रोदकाः । शुभ्रजला इत्यर्थः । अपरत्र अपरस्सिन्भागे नीलाश्मनामिन्द्रनीलानां&#३२; द्युतिभिर्भिदुराणि मिश्राण्यम्भांसि यासां ताः । नीलसलिला इत्यर्थः । इहाद्रौ सरितः कलिन्दस्याद्रेरपत्यं स्त्री कालिन्दी यमुना । `कालिन्दी सूर्यतनया यमुना शमनस्वसा` इत्यमरः । तस्या जलैर्जनिता श्रीः शोभा यस्यास्तस्याः । तत्संगताया इत्यर्थः । सुरापगाया गङ्गाया वैदग्धीं शोभां श्रयन्ते भजन्ति । विदग्धस्य भावो वैदग्धी । ब्राह्मणादित्वात् `गुणवचन-` (अष्टाध्यायी ५.१.१२४ ) इत्यादिना ष्यञ्प्रत्ययः । `षिद्गौरादिभ्यश्च` (अष्टाध्यायी ४.१.४१ ) इति ङीष् । सोऽपि त्वस्य बाहुलकत्वादिह वैकल्पिकः । अत एव `ष्यञः षित्करणादीकारो बहुलम्` इति वामनः । अत्र सितासितमणिगुणग्रहणात्सरितां यमुनासंगतगङ्गाशोभासादृश्याक्षेपात्तद्गुणोत्थापिता निदर्शना । प्रहर्षिणी वृत्तम् । `म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्`
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
त्र स्फ टि टां शु भि न्न नी रा
नी ला श्म द्यु ति भि दु रा म्भ सो ऽप त्र
का लि न्दी नि श्रि यः श्र न्ते
वै ग्धी मि रि तः सु रा गा याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.