Loading data... On slow networks this could take a few minutes.
100%

उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बै-
रुत्तम्भितोडुभिरतिवतरां शिरोभिः ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य
विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥

मल्लिनाथः उत्क्षिप्तमिति ॥ उच्छ्रिता उत्क्षिप्ताः सितांशोश्चन्द्रस्य करा अंशवो हस्ताश्चावलम्बो येषां तैः । उत्तम्भितान्युडूनि यैस्तैः । उडूनि चावष्टभ्येत्यर्थः । शिरोभिः शिखरैर्मस्तकैश्चातीवतरां भृशतरम् । अतीवशब्दादव्ययादामुप्रत्ययः । उत्क्षिप्तमुद्यम्य धृतं अन्तरीक्षं श्रद्धेयः सादृश्याद्विश्वसनीयो निर्झरजलमिति व्यपदेशो व्यवहारो यस्य तत् । दृढतरां निर्झरजलधियं कुर्वदित्यर्थः । अस्याद्रेस्तटेषु विष्वक् सम न्तात् पतति स्फुटं सत्यम् । इन्दुकरानुडूनि चावष्टभ्य शिरोभिर्धियमाणमपि दुरुद्धरत्वाद्भ्रश्यदन्तरीक्षमेवेदं न तु जलम् । सादृश्यात्तु व्यपदेशो दुर्वार इति सर्वतः पातिता, निर्झरजलं चोत्प्रेक्ष्यते । तेनोत्सेधविस्तारावस्य व्यज्यते
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
त्क्षि प्त मु च्छ्रि सि तां शु रा म्बै
रु त्त म्भि तो डु भि ति रां शि रो भिः
श्र द्धे नि र्झ व्य दे स्य
वि ष्व क्त टे षु ति स्फु न्त री क्षम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.