स्थगयन्त्यमूः शामितचातकार्तस्वरा
जलदास्तडित्तुलितकान्तकार्तस्वराः ।
जगतीरिहस्फुरितचारुचामीकराः
सवितुः कचित्कपिशयन्ति चामी कराः ॥

मल्लिनाथः स्थगयन्तीति ॥ इहाद्रौ क्वचिदमूर्जगतीभूमीः । `जगती भुवने भूमौ` इति विश्वः । शमिताश्चातकानामार्तस्वरा यैस्ते शमितचातकार्तस्वराः । `सर्वसहापतितमम्बु न चातकानाम्` इति भूमिगतस्य तेषां विषाभत्वादभौमाम्बुदानेनोज्जीवयन्तीत्यर्थः । किंच तडिद्भिस्तुलितान्युपमितानि कान्तानि कार्तस्वराणि सुवर्णानि यैस्ते तडित्तुलितकान्तकार्तस्वराः । तडित्स्फुरणे तेषामपि तद्वत्स्फुरणादिति भावः । ते जलदाः स्थगयन्त्याच्छादयन्ति । `स्थग आच्छादने` इति चौरादिकः । क्वचित्तु स्फुरितान्युल्लसितानि चारूणि चामीकराणि सुवर्णानि यैस्ते स्फुरितचारुचामीकरा अमी सवितुः कराः, आतपाश्च कपिशयन्ति कपिशिताः कुर्वते । क्वचिदृष्टिः क्वचिदातपश्चेति महदाश्चर्यमिति भावः । पथ्या वृत्तम् । `सजसा यलौ च सह गेन पथ्या मता
छन्दः पथ्या [१४: सजसयलग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
स्थ न्त्य मूः शा मि चा का र्त स्व रा
दा स्त डि त्तु लि का न्त का र्त स्व राः
ती रि स्फु रि चा रु चा मी राः
वि तुः चि त्क पि न्ति चा मी राः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.