कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो
मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्त-
स्वर्लोकस्त्रीगात्रनिर्णमत्र ॥

मल्लिनाथः कृत्वेति ॥ अत्राद्रौ निर्झरौघा गिरिनदप्रवाहाः । `प्रवाहो निझरो झरः` इत्यमरः । चूतवृक्ष इत्यादिवत्सामान्यविशेषभावादपुनरुक्तिः । पुंवत् पुंभिस्तुल्यम्। `तेन तुल्यं क्रिया चेत्-` (अष्टाध्यायी ५.१.११५ ) इति वतिः । उच्चैर्भृगुभ्योऽतटेभ्यः । `प्रपातस्वतटो भृगुः` इत्यमरः । ग्राव्णां शिलानां मूर्ध्नि पातं कृत्वा पतित्वा जर्जराः शकलीभूता द्यामाकाशं प्रत्युत्पतन्तः स्मरार्तानां स्वर्लोकस्त्रीणां खेचरीणामप्सरसां गात्रनि र्वाणमङ्गनिर्वृतिं कुर्वन्ति । `अनुष्ठानासमर्थस्य वानप्रस्थस्य जीर्यतः ।भृग्वग्निजलसंपातैर्मरणं प्रविधीयते ॥` इति विहितभृगुपातिनां पुंसां स्वर्लोकगामिनामिहोपमानता । शालिनी वृत्तम् । `शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः` इति
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
कृ त्वा पुं त्पा मु च्चै र्भृ गु भ्यो
मू र्ध्नि ग्रा व्णां र्ज रा नि र्झ रौ घाः
कु र्व न्ति द्या मु त्प न्तः स्म रा र्त
स्व र्लो स्त्री गा त्र नि र्ण त्र
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.