पाश्चात्यभागमिह सानुषु सन्निषण्णाः
पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।
संपूर्णलब्धललनालापनोपमान-
मुत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः ॥

मल्लिनाथः पाश्चात्येति ॥ इहाद्रौ सानुषु संनिषण्णाः स्थिता जनाः शान्तमलं कलड़्कस्य पुरोवर्तित्वान्निष्कलङ्कमत एव सान्द्रतरमंशुजालं यस्य तं संपूर्ण परिपूर्णंं लब्धं प्राप्तं ललनालपनोपमानं स्त्रीमुखसादृश्यं येन तम् । `आननं लपनं मुखम्` इत्यमरः । कुतः । उत्सङ्गसङ्गिहरिणस्याङ्कस्थमृगस्य मृगाङ्का मृगचिह्ना मृगचिह्ना मूर्तिर्यस्य तस्य मृगाङ्कमूर्तेश्चन्द्रस्य पश्चाद्भवः पाश्चात्यः । `दक्षिणापश्चात्पुरसस्त्यक्` (अष्टाध्यायी ४.२.९८ ) । स चासौ भागश्च तं पाश्चात्यभागं पृष्ठभागं पश्यन्ति । पाश्चात्यभागदर्शनातिशयोक्त्या तादृगौन्नत्यध्वनिः । वसन्ततिलका वृत्तम्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
पा श्चा त्य भा मि सा नु षु न्नि ण्णाः
श्य न्ति शा न्त सा न्द्र रां शु जा लम्
सं पू र्ण ब्ध ना ला नो मा
मु त्स ङ्ग ह्गि रि स्य मृ गा ङ्ग मू र्तेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.