Loading data... On slow networks this could take a few minutes.
100%

वहति यः परितः कनकस्थलीः
सहरिता लसमाननवांशुकः ।
अचलेषभवानिव राजते
स हरितालसमाननवांशुकः ॥

मल्लिनाथः वहतीति ॥ लसमाना दीप्यमाना नवांशवो यस्य स लसमाननवांशुकः । शैषिकः कप्प्रत्ययः । योऽचलः सहरिताः सदूर्वाः । `हरितेति च दूर्वायां हरिद्वर्णयुतेऽन्यवत्` इति विश्वः । कनकस्य स्थलीः स्वर्णभूमीः। `जानपद-` (अष्टाध्यायी ४.१.४२ ) इत्यादिना अकृत्रिमार्थे ङीष् । परितो वहति स एषोऽचलः हरितालेन कर्चूरेण समानं नवमंशुकं वासो यस्य स हरितालसमाननवांशुकः पीताम्बरो भवानिव राजते । द्रुतविलम्बितं वृत्तम् । `द्रुतविलम्बितमाह नभौ भरौ` इति लक्षणात्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
ति यः रि तः स्थ लीः
रि ता मा वां शु कः
ले वा नि रा ते
रि ता मा वां शु कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.