उदयतिविततर्ःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहतिगिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलाम् ॥

मल्लिनाथः उदयतीति ॥ वितता ऊर्ध्वाश्च रश्मिरज्जवो रश्मयो रज्जव इव यस्य तस्मिन् विततोर्ध्वररश्मिरज्जौ अहिमरुचौ सूर्ये उदयत्युदयमाने । `अय गतौ` इति स्वरितेतं केचिदिच्छन्ति । ततः शतरि सप्तमी । तथा विततोलरर्ध्वरश्मिरज्जौ हिमधाम्नि चन्द्रे चास्तं यात्यस्तमयमाने । यातेः शतरि सप्तमी । अयं गिरिर्विलम्बिना विशेष लम्ब१ `इट किट कटी गतौ` इत्यत्र केचिदीकारप्रश्लेषं वर्णयन्ति इति, अनेनैव श्लोकेन कविना `घण्टामाघः` इति नाम लब्धम् , इति च वल्लभदेवः.&#३२; मानेन घण्टाद्वयेन परिवारितस्य वेष्टितस्य वारणेन्द्रस्य लीलां शोभां वहति । अत्र लीलामिव लीलामिति सादृश्याक्षेपान्निदर्शना । तथा सूर्याचन्द्रमसावस्य कुक्षिसमानकक्षां विभ्रत इति महदौन्नत्यं व्यज्यते । पुष्पिताग्रा वृत्तम् । `अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा` इति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.