गुर्वीरजस्रं दृषदः समन्ता-
दुपर्युपर्यम्बुमुचांवितानैः ।
विन्ध्यायमानं दिवसस्य भर्तु-
मार्गं पुना रोद्धुमिवोन्नमद्भिः ॥

मल्लिनाथः गुर्वीरिति ॥ गुर्वीमहतीर्दृषदः । शिलातटीरिxx। पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्` इत्यमरः । उपर्युपरि दृषदां समीपे । उपरिप्रदेश इत्यर्थः । `उपर्यध्यधसः सामीप्ये` (८११७) इति द्विर्भावे तद्योगाद्वितीयेति । यथाह वामनः-`उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया` इति । समन्तादजस्रमुन्नमद्भिः । देशकालाविच्छेदेनोत्पतद्भिरित्यर्थः । अत एव तैरम्बुमुचां वितानैर्मेघवृन्दैनिमित्तैर्दिवसस्य भर्तुः सूर्यस्य मार्गं पुना रोद्धुम् । संहितायां `रो रि` (अष्टाध्यायी ८.३.१४ ) इति रलोपः `ढ्रलोपे-` (अष्टाध्यायी ६.३.१११ ) इति दीर्घः। विन्ध्यायमानमिव विन्ध्यवदाचरन्तम्। तद्वद्वर्धमानमिव स्थितमित्यर्थः । आचारे क्यङन्ताल्लटः शानजादेशः। अत्राविच्छिन्नमेघोन्नमनेन विन्ध्यायमानत्वोत्प्रेक्षणात् क्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
गु र्वी स्रं दृ दः न्ता
दु र्यु र्य म्बु मु चां वि ता नैः
वि न्ध्या मा नं दि स्य र्तु
मा र्गं पु ना रो द्धु मि वो न्न द्भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.