निशवासधूमं सहरत्नभा-
र्भित्त्वोत्थितं भूमिमिवोरगाणां ।
नीलोपलस्यूतविचित्रधातु-
मसौ गिरिं रैवतकं ददर्श ॥

मल्लिनाथः निःश्वासेति ॥ नीलोपलैरिन्द्रनीलमणिभिः स्यूताः प्रोता विचित्रा नानावर्णा धातवो गैरिकादयो यस्य तम् । अत एव रत्नभाभिर्मणिप्रभाभिः सह भूमिं भित्त्वा, उत्थितमूर्ध्वं निर्गतं उरगाणां निःश्वासधूमं फूत्कारबाष्पमिव स्थितं रैवताख्यं गिरिमसौ हरिददर्श । स्यूतेति सीव्यतेः कर्मणि क्तः । `च्छ्वोः शूडनुनासिके च` (अष्टाध्यायी ६.४.१९ ) इत्युडादेशे यणादेशः । अत्र गिरेविशिष्टवर्णनीयत्वेन विशिष्टधूमत्वोत्प्रेक्षणाद्गुणनिमित्तजातिस्वरूपोत्प्रेक्षा । सर्गेऽस्मिन्ननावृत्तानि । तत्रादावष्टादशोपजातयः । तल्लक्षणं तूक्तमतीतानन्तरसर्गादौ । अत्रासर्गसमाप्येर्गिरिवर्णनमेव
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
नि वा धू मं त्न भा
र्भि त्त्वो त्थि तं भू मि मि वो गा णां
नी लो स्यू वि चि त्र धा तु
सौ गि रिं रै कं र्श
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.