उच्चारणज्ञेऽथगिरादधान-
मुच्चा रणत्पक्षिगणास्तटीस्तम् ।
उत्कं धरं द्रष्टुमवेक्ष्य शौरि-
णुत्कन्धरं दारुक इत्युवाच ॥

मल्लिनाथः उच्चारणज्ञ इति ॥ अथ हरिविस्मयानन्तरं गिरां वाक्यानामुच्चारणं जानातीत्युच्चारणज्ञ उक्तिकुशलः । `आतोऽनुपसर्गे कः` (अष्टाध्यायी ३.२.३ ) इति कप्रत्ययः । न `इगुपध` (अष्टाध्यायी ३.१.१३५ ) इत्यादिना `आकारादनुपपदात्कर्मोपपदो भवति विप्रतिषेधेन` इति वचनात् । दारुकः कृष्णसारथिरुच्चा उन्नता रणन्तः शब्दायमानाः पक्षिगणा यासु ता रणत्पक्षिगणास्तटीर्दधानं तं पूर्वोक्तं । धरतीति धरं पर्वतम् । पचाद्यच् । `अहार्यधरपर्वताः` इत्यमरः । द्रष्टुमुत्कमुत्सुकम् । `उत्क उन्मनाः` (अष्टाध्यायी ५.२.८० ) इति निपातः । उत्कंधरमौत्सुक्यादुन्नमितकंधरं शौरिमवेक्ष्य इति वक्ष्यमाणक्रमेण वाचमुवाच । नहीङ्गितज्ञोऽवसरेऽवसीदतीति भावः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
च्चा ज्ञे ऽथ गि रा धा
मु च्चा त्प क्षि णा स्त टी स्तम्
त्कं रं द्र ष्टु वे क्ष्य शौ रि
णु त्क न्ध रं दा रु त्यु वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.