Loading data... On slow networks this could take a few minutes.
100%

दृषटोऽपि शैलः स मुहुर्मुरारे-
रपूर्ववद्विस्मयमाततान ।
क्षणेक्षमे यन्नवतामुपैति
तदेवरूपं रमणीयतायाः ॥

मल्लिनाथः दृष्टोऽपीति ॥ मुहुर्दृष्टोऽपि स शैलो मुरारेरपूर्वेणादृष्टपूर्वेण तुल्यमपूर्ववत् । `तेन तुल्यं क्रिया चेत्-` (अष्टाध्यायी ५.१.११५ ) इति वतिः । विस्मयमाततान । अतिरमणीयत्वादिति भावः । तथा हि—क्षणे क्षणे प्रतिक्षणम् । वीप्सायां द्विर्भावः । नवतामपूर्ववद्भावमुपैतीति यत् , तन्नवत्वोपगमनमेव रमणीयताया रूपं स्वरूपम् । लक्षणमित्यर्थः । अत्र रमणीयत्वलक्षणस्य वाक्यार्थस्य विस्मये हेतुत्वसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२
दृ टो ऽपि शै लः मु हु र्मु रा रे
पू र्व द्वि स्म मा ता
क्ष णे क्ष मे न्न ता मु पै ति
दे रू पं णी ता याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.