Loading data... On slow networks this could take a few minutes.
100%

फलद्भिरुष्णांशुकराभिमर्शा-
त्कर्शानवं धाम पतङ्गकान्तैः ।
शशंस यः पात्रगुणाद्गुणानां
संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥

मल्लिनाथः फलद्भिरिति ॥ यः शैल उष्णांशुकराभिमर्शादर्ककरसंपर्कात् कृशानोरिदं कार्शानवमाग्नेयं धाम तेजः फलद्भिरुद्रिद्भिः । अग्निकरसामर्थ्याभिव्यञ्जकैरिति भावः । पतङ्गकान्तैः सूर्यकान्तैः । दृष्टान्तभूतैरिति भावः । गुणानां संक्रान्तिमन्यत्र संक्रमणम् । संक्रान्तगुणानित्यर्थः । पात्रगुणादाधारगुणसहकारादाक्रान्तः प्राप्तो गुणातिरेकः कार्यविशेषाधानरूपो गुणोत्कर्षों यस्यास्तां शशंस प्रतिपादयामास । अर्कत्विषां सर्वत्र संक्रमणाविशेषेऽपि सूर्यकान्तेष्वेव ज्वलनजननदर्शनात् सर्वत्रापि संक्रम्यकारिणां गुणानामाधारगुणसहकारात् कार्यविशेषाधायकत्वमिति निश्चयोऽत्रैव जायत इत्यर्थः । ततश्च सहकारशक्तिविरहिणी सहजशक्तिरनुपकारिणीति भावः । वृत्त्यनुप्रासोऽलंकारः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
द्भि रु ष्णां शु रा भि र्शा
त्क र्शा वं धा ङ्ग का न्तैः
शं यः पा त्र गु णा द्गु णा नां
सं क्रा न्ति मा क्रा न्त गु णा ति रे काम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.