Loading data... On slow networks this could take a few minutes.
100%

यत्रोज्झिताभिर्मुहुरम्बुवाहैः
समुन्नमद्भिर्न समुन्नमद्भि ।
वनं बबाधे विषपावकोत्था
विपन्नगानामविपन्नगानाम् ॥

मल्लिनाथः यत्रेति ॥ यत्र शैले समुन्नमद्भिः समुत्पतद्भिः अम्बुवाहैः उज्झिताभिस्त्यक्ताभिरद्भिर्मुहुः समुन्नं सम्यगुन्नं क्लिन्नम् । सिक्तमित्यर्थः । `उन्दी क्लेदने` इति धातोः कर्मणि क्तः । `नुदविद-` (अष्टाध्यायी ८.२.५६ ) इत्यादिना निष्ठानत्वम् । विपन्नगा विगतसर्पा न भवन्तीत्यविपन्नगाः । सपन्नगा इत्यर्थः । तेषामविपन्नगानां नगानां वृक्षाणां वनं विषपावकोत्था विषाग्निसमुत्था विपत् आपत् न बबाधे । नित्यं वर्षानुसङ्गाद्विषाग्निक्षोभो वृक्षाणामकिंचित्कर इति भावः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्रो ज्झि ता भि र्मु हु म्बु वा हैः
मु न्न द्भि र्न मु न्न द्भि
नं बा धे वि पा को त्था
वि न्न गा ना वि न्न गा नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.