विभिन्नवर्णागरुडाग्रजेन
सूर्यस्यरथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचं स्वा-
मानिन्यिरे वंशकरीरनीलैः ॥

मल्लिनाथः विभिन्नेति ॥ गरुडाग्रजेनारुणेन विभिन्नवर्णा अन्यथाकृतवर्णाः । अरुणिमानमापादिता इत्यर्थः । सूर्यस्य संबन्धिनो रथं वहन्तीति रथ्या रथाश्वाः । `तद्वहति रथयुगप्रासङ्गम्` (अष्टाध्यायी ४.४.७६ ) इति यत्प्रत्ययः । यत्र शैले वंशकरीरनीलैर्वंशाङ्कुरश्यामै रत्नैः । मरकतैरित्यर्थः । `वंशाङ्कुरे करीरोऽस्त्री` इत्यमरः । वंशशब्दस्याम्लानताहेतोरलूनतायाः प्रतिपत्त्यर्थत्वादपौनरुक्त्यम् । अत एवैकार्थपदमप्रयोज्यमित्युक्त्वा करिकलभकर्णावतंसादिषु प्रतिपत्तिविशेषकरेषु न दोष इत्याह वामनः। न विशेषश्चेदिति । परितः स्फुरन्त्या रुचा स्वप्रभया करणेन, पुनः स्वां रुचं निजहरितवर्णमेवानिन्यिरे आनीताः । नयतेर्द्विकर्मकात्प्रधाने कर्मणि लिट् । `प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्` इति वचनात् । अत्र विभिन्नवर्णा इत्येकस्तद्गुणः । रथ्यानां स्वगुणत्यागेन गरुडाग्रजगुणग्रहणात्पुनस्तत्त्यागेन मरकत गुणग्रहणादपरस्तद्गुणस्तदुपजीवीति सजातीययोः संकरः । तेन गिरेः सूर्यमण्डलपर्यन्तमौन्नत्यं वस्तु व्यज्यते । `तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
वि भि न्न र्णा रु डा ग्र जे
सू र्य स्य थ्याः रि तः स्फु न्त्या
त्नैः पु र्य त्र रु चं स्वा
मा नि न्यि रे वं री नी लैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.