यत्राधिरूढेनमहीरुहोच्चै-
रुन्निद्रपुष्पाक्षिसहस्रभाजा ।
सुराधिपाधिष्ठितहस्तिमल्ल-
लीलां दधौ राजतगण्डशैलः ॥

मल्लिनाथः यत्रेति ॥ यत्र शैले रजतस्य विकारो राजतः । `प्राणिरजतादिभ्योऽञ्` (अष्टाध्यायी ४.३.१५४ ) इत्यञ्प्रत्ययः । स चासौ गण्डशैलश्च । `गण्डशैलास्तु च्युताः स्थूलोपला गिरेः` इत्यमरः । उन्निद्राणि विकसितानि पुष्पाण्यक्षीणीवेत्युपमितसमासः । तेषां सहस्रं भजतीति तद्भाजा अधिरूढेनोच्चैर्महीरुहा वृक्षेण सुराधिपेन देवेन्द्रेणाधिष्ठितो यो हस्ती मल्ल इव तस्यैरावतस्य लीलां शोभां दधौ । ऐरावतस्य धावल्यादिति भावः । `हस्तिमल्लोऽभ्रमातङ्गे हस्तिमल्लो विनायके` इति विश्वः । अत्र लीलामिव लीलामिति सादृश्याक्षेपान्निदर्शनालंकारः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्रा धि रू ढे ही रु हो च्चै
रु न्नि द्र पु ष्पा क्षि स्र भा जा
सु रा धि पा धि ष्ठि स्ति ल्ल
ली लां धौ रा ण्ड शै लः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.