अखिध्यतासन्नमुदग्रतापं
रविं दधानेऽप्यरविन्दधाने ।
भृङ्गावलिर्यस्यतटे निपीत-
रसा नमत्तामरसा न मत्ता ॥

मल्लिनाथः अखिद्यतेति ॥ आसन्नमौन्नत्यात् संनिहितमत एवोदग्रतापं दुःसहातपं रविं दधानेऽपि, अरविन्दधान इति विरोधः । अरविन्दानां धाने निधाने इति परिहारः। धीयतेऽस्मिन्निति धानम् । अधिकरणे ल्युट् । शब्दश्लेषमूलो विरोधालंकारः । यस्य गिरेस्तटे निपीतरसा नितरां पीतमकरन्दा नमन्ति तामरसानि पङ्केरुहाणि भारभूतया यया सा नमत्तामरसा । `पङ्केरुहं तामरसम्` इत्यमरः । अत एव मत्ता भृङ्गावलिर्नाखिद्यत न खिन्ना । खिदेदैवादिकात्कर्तरि लङ् । अत्यन्तसूर्यसंनिधानेऽप्यरविन्दाकरविहारान्मधुकरास्तापं नापुरित्यर्थः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
खि ध्य ता न्न मु ग्र ता पं
विं धा ने ऽप्य वि न्द धा ने
भृ ङ्गा लि र्य स्य टे नि पी
सा त्ता सा त्ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.