यतः परार्घ्यानि भृतान्यनूनै
प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि ।
आढ्यादिवप्रापणिकादजस्रं
जग्राह रत्नान्यमितानि लोकः ॥

मल्लिनाथः यत इति ॥ लोकः परार्ध्यानि श्रेष्ठानि, अनूनैर्महद्भिः, भूरिभिः प्रभूतैः । `प्रभूतं प्रचुरं प्राज्यं भूरि` इत्यमरः । प्रस्थैः सानुभिर्मानविशेषैश्च । `प्रस्थोऽस्त्री सानुमा नयोः` इत्यमरः । भृतानि संभृतानि मितानि च उच्छिखान्युश्मीनि अमितान्यपरिमितानि रत्नानि यतः शैलादाढ्याद्धनिकात् । `इभ्य आढ्यो धनी` इत्यमरः । प्रपणो व्यवहारः प्रयोजनमस्य प्रापणिको वणिक् । `तदस्य प्रयोजनम्` इति ठक् । `पण्याजीवाः प्रापणिका वैदेहा नैगमाश्च ते । वणिजः` इति वैजयन्ती । तस्मादिवाजस्रं मुहुर्जग्राह । उपमालंकारः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
तः रा र्घ्या नि भृ ता न्य नू नै
प्र स्थै र्मु हु र्भू रि भि रु च्चि खा नि
ढ्या दि प्रा णि का स्रं
ग्रा त्ना न्य मि ता नि लो कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.