उत्पित्सवोऽन्तर्नदभर्तुरुच्चै-
र्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरुडध्वजस्य
ध्वाजानिवोच्चिक्षिपिरे फणीन्द्राः ॥

मल्लिनाथः उत्पित्सव इति ॥ नदभर्तुः समुद्रस्यान्तरभ्यन्तरादुत्पित्सव उत्पतितुमिच्छवः । पततेः सन्नन्तादुप्रत्ययः । `सनि मीमा-` (७४।५४) इत्यादिना इसादेशः। `अत्र लोपोऽभ्यासस्य` (अष्टाध्यायी ७.४.५८ ) इत्यभ्यासलोपः । फणीन्द्राः सर्पा भक्त्या गरुडध्वजस्य हरेर्ध्वजानिव गरीयसाऽतिमहता निःश्वसितानिलेन मुखमारुतेन पयांस्युच्चैरुच्चिक्षिपिरे उत्क्षिप्तवन्तः । उत्प्रेक्षा । स्वरितेत्त्वादात्मनेपदम्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्पि त्स वो ऽन्त र्न र्तु रु च्चै
र्ग री सा निः श्व सि ता नि ले
यां सि क्त्या रु ध्व स्य
ध्वा जा नि वो च्चि क्षि पि रे णी न्द्राः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.