विक्रीय दिश्यानि धनान्युरूणि-
दैप्यानसावुत्तमलाभबाजः ।
तरीषु तत्रत्यमफल्गु भाण्डं
सांयान्त्रिकानावापतःऽभ्यनन्दत् ॥

मल्लिनाथः विक्रीयेति ॥ दिक्षु भवानि दिश्यानि । दिगन्तरानीतानीत्यर्थः । `दिगादिभ्यो यत्` (अष्टाध्यायी ४.३.५४ ) उरूणि महान्ति धनानि नानाद्रव्याणि विक्रीय मूल्येन दत्त्वोत्तमलाभं द्वैगुण्यादिकं भजन्तीति तानुत्तमलाभभाजः । तत्रत्यं द्वैप्यमित्यर्थः । `अव्ययात्त्यप्` (अष्टाध्यायी ४.२.१०४ ) । अफल्गु सारवत् । `फल्गु तुच्छमसारं च` इति यादवः । भाण्डं मूलधनम् । पण्यद्रव्यमित्यर्थः । `वणिङ्मूलधने पात्रे भाण्डं भूषाश्वभूषयोः` इति वैजयन्ती । तरीषु नौषु । `स्त्रियां नौस्तरणिस्तरिः` इत्यमरः । `अविस्तरिस्तन्त्रिः-` इत्यौणादिक इकारप्रत्ययः । आवपत आदधतः । वपतेः शतृप्रत्ययः । द्वैप्यान् समुद्रद्वीपवासिनः । `द्वीपादनुसमुद्रं यञ्` (अष्टाध्यायी ४.३.१० ) इति यञ्प्रत्ययः। संयात्रा संभूय यात्रा सा प्रयोजनमेषां तान् सांयात्रिकान् पोतवणिजः। `सांयात्रिकः पोतवणिक्` इत्यमरः । `प्रयोजनम्` (अष्टाध्यायी ५.१.१०९ ) इति ठक् । असौ हरिरभ्यनन्दत्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
वि क्री दि श्या नि ना न्यु रू णि
दै प्या सा वु त्त ला बा जः
री षु त्र त्य ल्गु भा ण्डं
सां या न्त्रि का ना वा तः ऽभ्य न्दत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.