Loading data... On slow networks this could take a few minutes.
100%

तमागतं वीक्ष्य युगान्तबन्धु-
मुत्सङ्गशय्याशयमम्बुराशिः ।
प्रत्युज्जगामेव गुरुप्रमोद-
प्रसारितोत्तुङ्गतरङ्गबाहुः ॥

मल्लिनाथः तमिति ॥ अम्बुराशिः युगान्तबन्धुम् । आपद्धन्धुमित्यर्थः । उत्सङ्ग एव शय्या तस्यां शेत इति तथोक्तम् । `अधिकरणे शेतेः` (अष्टाध्यायी ३.२.१५ ) इत्यच्प्रत्ययः । आगतमभ्यागतं तं हरिं वीक्ष्य गुरुणा प्रमोदेन प्रसारिता उत्तुङ्गास्तरङ्गा एव बाहवो यस्य सः सन् प्रत्युज्जगाम संमेलनार्थमागतवानिवेति क्रियास्वरूपोत्प्रेक्षा
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
मा तं वी क्ष्य यु गा न्त न्धु
मु त्स ङ्ग य्या म्बु रा शिः
प्र त्यु ज्ज गा मे गु रु प्र मो
प्र सा रि तो त्तु ङ्ग ङ्ग बा हुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.