Loading data... On slow networks this could take a few minutes.
100%

पीत्वा जलानां निधिनातिगार्ध्या-
द्वृद्धिङ्गतेऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः स रुचोऽधिवेलं
मुक्तावलीराकलयाञ्चकार ॥

मल्लिनाथः पीत्वेति ॥ जलानां निधिना समुद्रेण गर्ध एव गार्ध्यम् । औपम्यादिवच्चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । तदतिमात्रमतिगार्ध्यं तस्मात् । तृष्णाभरादित्यर्थः । गृध्नोः पुनरोर्गुणः `वान्तो यि प्रत्यये` (६११७९) इति गार्धव्यमिति स्यात् । पीत्वा । क्षेपणक्रियापेक्षया पूर्वकालता । अथ वृद्धिं गते आत्मनि देहे । चन्द्रोदये समुद्रस्य वृद्धिरित्यागमः । नैव मान्तीरमान्तीः । अतिरिच्यमाना इत्यर्थः । मातेः शतरि ङीप् । `आच्छीनद्योर्नुम्` (७।१८०) क्षिप्ता उद्गीर्णातितृष्णयोत्कटं पीत्वा अन्तरमानाद्वहिरुद्वान्ता इत्यर्थः । इन्दो रुचो मरीचीरिवेत्युत्प्रेक्षा । स हरिरधिवेलमधितीरम् । `वेला कूलविकारयोः` इति विश्वः । मुक्तावलीराकलयांचकाराकलयामास । कलतिः कामधेनुः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
पी त्वा ला नां नि धि ना ति गा र्ध्या
द्वृ द्धि ङ्ग ते ऽप्या त्म नि नै मा न्तीः
क्षि प्ता वे न्दोः रु चो ऽधि वे लं
मु क्ता ली रा या ञ्च का
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.