आश्लिष्टभूमिं रसितारमुच्चै-
र्लोलद्ध्वजाकार बृहत्तरङ्गं ।
फेनायमानं पतिमापगाना-
मसावपस्मारिणमाशसङ्गे ॥

मल्लिनाथः आश्लिष्टेति ॥ आश्लिष्टभूमिमालिङ्गितभूतलमुच्चैस्तारं रसितारं क्रन्दितारं लोलतां चञ्चलतामितस्ततः पततां भुजानामाकार इवाकारो येषां ते बृहत्तरङ्गा यस्य तं तथोक्तं फेनायमानं फेनमुद्वमन्तम् । `फेनाञ्चेति वक्तव्यम्` (वा०) इति क्यङ् । अपां समूह आपम् । `तस्य समूहः` (अष्टाध्यायी ४.२.३७ ) इत्यण् । तेन गच्छन्तीत्यापगाः तासां पतिं समुद्रम् । असौ हरिरपस्मारिणमपस्माररोगिणमाशशङ्के । तत्कर्मयोगात्तथोत्प्रेक्षां चक्रे इत्यर्थः । यथाहुनैदानिका:-क्रुद्धैर्धातुभिरारतेऽथ मनसि प्राणी मनः संदिशन्दन्तान्खादति फेनमुद्गिरति दोःपादौ क्षिपन्मूढधीः। पश्यन्रूपमसत्क्षितौ निपतति व्यर्थां करोति क्रियां बिभ्यत्स स्वयमेव शाम्यति गते वेगे त्वपस्माररुक् ॥` इति
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
श्लि ष्ट भू मिं सि ता मु च्चै
र्लो द्ध्व जा का बृ त्त ङ्गं
फे ना मा नं ति मा गा ना
सा स्मा रि मा ङ्गे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.