शनैरनीयन्त रयात्पतन्तो-
रथाः क्षितिं हस्तिनखादखेदैः ।
सयत्नसूतायतरशमिभु-
ग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गै ॥

मल्लिनाथः शनैरिति ॥ रयात्पतन्तो धावन्तो रथाः सयत्नैः सूतैः सारथिभिः । `सूतः क्षत्ता च सारथिः` इत्यमरः । आयता आकृष्टा ये रश्मयः प्रग्रहाः। `किरणप्रग्रहौ रश्मी` इत्यमरः । तैर्भुग्नेषु प्रह्वेषु ग्रीवाणामग्रेषु संसक्ता युगा युग्याः स्कन्धवाह्या दारुविशेषा येषां तैरत एवाखेदैरश्रमैस्तुरंगैः। हस्तिनखात् । हस्तिनखः पूर्द्वारि मृत्कूटः । `कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्` इत्यमरः । तस्माच्छनैः क्षितिमनीयन्त नीता इति स्वभावोक्तिः । यथावद्वस्तुवर्णनात्
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२
नै नी न्त या त्प न्तो
थाः क्षि तिं स्ति खा खे दैः
त्न सू ता मि भु
ग्न ग्री वा ग्र सं क्त यु गै स्तु ङ्गै
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.