बलोर्मिभिस्तत्क्षणहीयमान-
रथ्याभुजाया वलयैरिवास्याः ।
प्रायेणनिष्क्रामतिचक्रपाणै
नेषेटं परो द्वारवतीत्वमासीत् ॥

मल्लिनाथः बलोर्मिभिरिति ॥ बलान्यूर्मय इव तैर्बलोर्मिभिः वलयैः कङ्कणैरिव तत्क्षणे हरिनिष्क्रमणक्षण एव हीयमाना अपरिच्यमाना रथ्या भुजेव यस्यास्तस्याः अत एवास्याः पुरो द्वारवत्याश्चक्रपाणौ कृष्णे निष्कामति निर्गच्छति सति प्रायेण भूम्ना द्वारवतीत्वं द्वारकात्वम् । स्वस्वरूपमिति यावत् । इष्टं नासीत् । हरिविरहे तद्वैफल्यादिति भावः। द्वारवतीशब्दस्य संज्ञात्वात् `स्वतलोर्गुणवचनस्य` (वा०) इति न पुंवद्भावः ।&#३२; अन्यत्र द्वारवतीत्वं द्वारवत्त्वं नेष्टं, तस्य हरिनिष्क्रमणहेतुत्वात् , इत्युभयथाप्युपमितभुजवलयगलनहेतुत्वात् उपमासंकीर्णेयमनिष्टत्वोत्प्रेक्षा प्रायेणेत्यनेन व्यज्यते
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११ १२
लो र्मि भि स्त त्क्ष ही मा
थ्या भु जा या यै रि वा स्याः
प्रा ये नि ष्क्रा ति क्र पा णै
ने षे टं रो द्वा ती त्व मा सीत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.