Loading data... On slow networks this could take a few minutes.
100%

निरन्तरालेऽपि विमुच्माने
दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपै-
र्द्वीपैरसंबधमयांबभूवे ॥

मल्लिनाथः निरन्तराल इति ॥ तमसा तिमिरेणेव प्राणभृतां गणेन प्राणिवर्गेण कर्त्रा निरन्तरालेऽपि पूर्वं स्वेनैवातिसंकटेऽपि पथि संप्रति दूरं दूरत एव विमुच्यमाने सति । एकत्र दीपभयादन्यत्र द्विपभयाच्चेत्यर्थः। तेजोमहद्भिर्बलाधिकैः, प्रभासंपन्नैश्च । `तेजो बलं प्रभा तेजः` इति विश्वः। द्विपैर्दीपैरिवासंबाधमसंकीर्णमयांबभूवे जग्मे । न त्वश्वैरिव कृच्छ्रादिति भावः। `अय गतौ` भावे लिट् `दयायासश्च` (३।१॥३७) इत्याम्प्रत्ययः । स्वतेजसैव दूरोत्सारिततमस्के दीपा इव तथोत्सारितप्राणिके पथि निरर्गलं द्विपाः प्रययुरित्यर्थः । तमसीति सप्तम्यन्तपाठे तु तमसः पथ्युपमानत्वे द्विपागमनात् पथ इव तमसो दीपागमनात् प्राकृतप्राणिवर्गेण निरन्तरालत्वं पश्चान्मुच्यमानत्वं च न संभवतीत्युपमानोपमेययोवैरूप्यं स्यात् । तृतीयान्तपाठे तमसः प्राणिवर्गोपमानत्वे तत्सारूप्यसाकल्यात् स एव साधीयानित्यालंकारिकाणां पन्थाः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
नि न्त रा ले ऽपि वि मु च्मा ने
दू रं थि प्रा भृ तां णे
ते जो द्भि स्त से दी पै
र्द्वी पै सं यां भू वे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.