श्लिःष्यद्भिरन्योनमुखाग्रसङ्ग-
स्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा
दुःखेन निशचक्रमुरश्ववाराः ॥

मल्लिनाथः श्लिष्यद्भिरिति ॥ अन्योन्येषां मुखाग्रेषु सङ्गेन स्खलन्तः खलीनाः कविका यस्मिन्कर्मणि तद्यथा तथा। `कविका तु खलीनोऽस्त्री` इत्यमरः । श्लिष्यद्भिः संघृष्यद्भिः विलोलैः मुहुरुच्चलद्भिः हरिभिस्तुरंगैः करणैः । अश्वान् वारयन्ति ये तेऽश्ववारा अश्वारोहाः परस्परेणोत्पीडितजानुभागाः सन्तो दुःखेन निश्चक्रमुः निर्जग्मुः। अत्र स्वभावोत्यातिशयोक्तेः संकरः
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२
श्लिः ष्य द्भि न्यो मु खा ग्र ङ्ग
स्ख त्ख ली नं रि भि र्वि लो लैः
स्प रो त्पी डि जा नु भा गा
दुः खे नि क्र मु श्व वा राः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.