तामीक्षमाणः स पुरं पुरस्ता-
त्प्रापत्प्रतोलीमतुलप्रतापः ।
वज्रप्रभोद्भासिसुरायुधश्री-
र्या देवसेनेव परैरलङ्घ्या ॥

मल्लिनाथः तामिति ॥ अतुलप्रतापः स हरिस्तां पूर्वोक्तां पुरमीक्षमाणः पुरस्तात् पूर्वस्यां दिशि । सप्तम्यर्थे तसिल् प्रत्ययः । प्रतोली रथ्याम् । `रथ्या प्रतोली विशिखा` इत्यमरः । प्रापत् प्राप्तवान् । लुङि `पुषादि-` (अष्टाध्यायी ३.१.५५ ) इत्यादिना च्लेरङादेशः । वज्राणां तोरणप्रासादादिगतहीरकादिमणीनां प्रभाभिरुद्भासिनी सुरायुधश्रीरिन्द्रचापलक्ष्मीर्यस्यां सा । इह वज्रग्रहणं मणिमात्रोपलक्षणम् । अन्यथेन्द्रायुधासाम्यादिति भावः । अन्यत्र वज्रस्य कुलिशस्य प्रभाभिरुद्भासिनी सुरायुधानाभितरदेवतायुधानां श्रीर्यस्याः सा । `वज्रोऽस्त्री हीरके पवौ` इत्यमरः । या प्रतोली देवसेना सुरचमूरिव परैः शत्रुभिरलङ्घ्या दुष्प्रधर्ष्या
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
ता मी क्ष मा णः पु रं पु स्ता
त्प्रा त्प्र तो ली तु प्र ता पः
ज्र प्र भो द्भा सि सु रा यु श्री
र्या दे से ने रै ङ्घ्या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.