तमङ्गदे मन्दरकूटकोटि-
व्याघट्टनोत्तेजनतया मणीनाम् ।
बंहीयसा दीप्तिवितानकेन
चकासयामासतुरुल्लसन्ती ॥

मल्लिनाथः तमङ्गदे इति ॥ तं हरिं मन्दरकूटकोटिव्याघट्टनं मन्दराचलशिखराग्रसंघर्षणं सैवोत्तेजना शाणोल्लेखना तया बंहीयसा बहुतरेण । `प्रियस्थिर-` (अष्टाध्यायी ६.४.१५७ ) इत्यादिना बहुलशब्दस्येयसुनि बंहादेशः । मणीनां दीप्तिवितानकेन प्रभापटलेनोल्लसन्ती दीप्यमाने । `आच्छीनद्योर्नुम्` (अष्टाध्यायी ७.१.८० ) इति नुमागमः । अङ्गदे केयूरे । `केयूरमङ्गदं तुल्ये` इत्यमरः। चकासयामासतुः शोभयांचक्रतुः। अङ्गदे धृतवानित्यर्थः । चकास्तेर्ण्यन्ताल्लिटि आम्प्रत्ययेऽस्तेरनुप्रयोगः । अत्राङ्गदयोः प्राग्भवीयाङ्गदभेदेऽप्यभेदोक्तिमुत्प्रेक्ष्य तयोर्मन्दरकूटकोट्यसंबन्धेऽपि संबन्धोक्त्या द्वयोरतिशयोक्त्योः संकरः
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२
ङ्ग दे न्द कू को टि
व्या ट्ट नो त्ते या णी नाम्
बं ही सा दी प्ति वि ता के
का या मा तु रु ल्ल न्ती
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.