Loading data... On slow networks this could take a few minutes.
100%

निसर्गरक्तैर्वलयावनद्ध-
ताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।
व्यद्योताद्यापि सुरारिवक्षो-
विक्षोभजासृक्स्नपितैरिवासो ॥

मल्लिनाथः निसर्गेति ॥ असौ हरिर्निसर्गरक्तैः स्वभावलोहितैः । किंच वलये कटके `कटकं वलयोऽस्त्रियाम्` इत्यमरः । तयोरवनद्धानां प्रत्युप्तानां ताम्राश्मनां पद्मरागाणां रश्मिभिः छुरितैः अत एवाद्यापि सुरारेर्हिरण्यकशिपोर्वक्षसो विक्षोभेण विदारणेन जाता याऽसृक्तया स्नपितैः सिक्तैरिव स्थितैरित्युत्प्रेक्षा। स्नातेर्ण्यन्तात् क्तः । `अर्तिह्री-` (अष्टाध्यायी ७.३.३६ ) इत्यादिना पुगागमः । मितां ह्रस्वः । नखाग्रैर्व्यद्योतत । कटके च धृतवानित्यर्थः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
नि र्ग क्तै र्व या द्ध
ता म्रा श्म श्मि च्छु रि तै र्न खा ग्रैः
व्य द्यो ता द्या पि सु रा रि क्षो
वि क्षो जा सृ क्स्न पि तै रि वा सो
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.