तस्योल्लसत्काञ्चनकुण्डलाग्र-
प्रत्युप्तगारुग्मतरस्रभासा ।
अवाप बाल्योचितनीलकण्ठ-
पिच्छावचूडाकलनामिवोरः ॥

मल्लिनाथः &#३२; तस्येति ॥ तस्य हरेरुर उरस्थलमुल्लसन्त्या काञ्चनकुण्डलाग्रयोः प्रत्युप्तानां खचितानां गारुत्मतरत्नानां मरकतमणीनां भासा दीप्त्या । उरसि प्रसरन्त्येति भावः । बाल्यं शैशवम् । ब्राह्मणादित्वात्ष्यञ् । तत्रोचितमभ्यस्तं यन्नीलकण्ठपिच्छं मयूरबर्हम् । `अभ्यस्तेऽप्युचितं न्याय्ये` इति यादवः । `पिच्छबर्हे नपुंसके` इत्यमरः । तेन निर्मितावचूडा मालिका तस्याः कलनामामोचनमवमोचनं वा अवापेवेत्युत्प्रेक्षा । `यत्रान्यधर्मसंबन्धादन्यदेवोपतर्कितम् । प्रकृते हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥` इति लक्षणात्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्यो ल्ल त्का ञ्च कु ण्ड ला ग्र
प्र त्यु प्त गा रु ग्म स्र भा सा
वा बा ल्यो चि नी ण्ठ
पि च्छा चू डा ना मि वो रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.