मल्लिनाथः
यस्यामिति ॥ यस्यां पुरि अजिह्मा अवकाः, अन्यत्राकपटाः । दम्भादिरहिता इत्यर्थः । `आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा` इति स्मरणादिति भावः । `जिह्मः कपटवक्रयोः` इति विश्वः । अपङ्काः कर्दमरहिताः, निष्पापाश्च । `पङ्कोऽघे कर्दमे` इति हैमः । महतीं सीमानं राजकल्पितक्षेत्रमानं मर्यादां, कुलागतानुष्ठानस्थितिं चात्यजन्तः। अत्यक्तमहामर्यादा इत्यर्थः । अतिमात्रा आयतिरायामः उत्तरकालश्च येषां ते अत्यायतयः । `आयतिस्तूत्तरे काले संयमायामयोरपि` इति विश्वः । द्वये द्विरूपा अपि । `प्रथमचरमतया-` (१॥१॥३३) इत्यादिना जसि विभाषया सर्वनामसंज्ञा । विनीतमार्गाः सुरचितपुरवीथयः, सुशिक्षिताचारपद्धतयश्च न जातं स्खलनं पाषाणादिप्रतिघातः, विरुद्धाचरणं च येषां तैर्जनैर्जातु कदाचिदपि नामुच्यन्त न त्यक्ताः । न कदाचित्खिलीकृता इत्यर्थः । अत्र मार्गशब्दस्य साधर्म्यादेकवृन्तावलम्बिफलद्वयवदेकशब्देनार्थद्वयप्रतीतेः, द्वयानामपि मार्गाणां प्रकृतत्वाच्च केवलप्रकृतविषयोऽर्थश्लेषः । विशेष्यस्यापि श्लिष्टत्वान्न तुल्ययोगिता
छन्दः
इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| य | स्या | म | जि | ह्मा | म | ह | ती | म | प | ङ्गाः | |
| सी | मा | न | म | त्या | य | त | यो | ऽत्य | ज | न्तः | |
| ज | नै | र | जा | स्ख | ल | नै | जा | ||||
| तु | द्व | ये | प्य | मु | च्य | न्त | वि | नी | त | मा | र्गाः |
| त | त | ज | ग | ग | |||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.