Loading data... On slow networks this could take a few minutes.
100%

परस्पस्फर्धिपरार्घ्यरूपाः
पौरस्त्रियो यत्र विधाय वेधाः ।
श्रीनिर्मितप्राप्तगुणक्षतैक-
वर्णोपमावाच्यमलं ममार्ज ॥

मल्लिनाथः परस्परेति ॥ यत्र पुरि परस्परस्पर्धीन्यहमहमिकयाऽन्योन्यसामर्षाणि परार्ध्यानि श्रेष्ठानि रूपाणि सौन्दर्याणि यासां ताः। `रूपं स्वरूपे सौन्दर्ये` इति विश्वः । पुरे भवाः पौरस्ताः स्त्रियः पौरस्त्रियः। `स्त्रियाः पुंवत्-` (अष्टाध्यायी ६.३.३४ ) इत्यादिना पुंवद्भावः। विधाय निर्माय वेधाः स्रष्टा श्रियो लक्ष्मीदेव्याः निर्मित्या निर्माणेन प्राप्तं यत् घुणेन वज्रकीटेन क्षतस्योत्कीर्णस्यैकवर्णस्योपमया साम्येन वाच्यमपवादः तदलमत्यन्तम् । तदेव मलमिति केचित् । ममार्ज । घुणाक्षरवत् यादृच्छिकमिदं श्रीदेवतासौन्दर्यशिल्पं न कौशलमित्ययशः क्षालितवानित्यर्थः । अनया चातिशयोक्त्या पौरस्त्रीणां रमासमानसौन्दर्यं वस्तु व्यज्यते
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
स्प स्फ र्धि रा र्घ्य रू पाः
पौ स्त्रि यो त्र वि धा वे धाः
श्री नि र्मि प्रा प्त गु क्ष तै
र्णो मा वा च्य लं मा र्ज
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.