Loading data... On slow networks this could take a few minutes.
100%

छन्नेऽपि स्पष्टतरेषु यत्र
स्वच्छानि नारीकुचमण्डलेषु ।
आकाशसाम्यं दधुरम्बराणि
न नामतः केवलमर्थतःऽपि ॥

मल्लिनाथः छन्नेष्विति ॥ यत्र पुरि छन्नेष्वाच्छादितेषु । `वा दान्त-` (अष्टाध्यायी ७.२.२७ ) इत्यादिना वैकल्पिको निपातः । स्पष्टतरेषु । स्फुटतरं लक्ष्यमाणेष्वित्यर्थः । नारीकुचमण्डलेषु स्वच्छानि स्फटिकादिवदतिरोधायकानि, अम्बराणि वस्त्राणि केवलं नामतोऽम्बरमिति नाम्नेवाकाशसाम्यं न दधुः । `अम्बरं व्योम्नि वाससि` इति विश्वः । किंत्वर्थतोऽप्यर्थक्रिययापि तत्साम्यं दधुः । स्वयमतिसूक्ष्मत्वादव्यवधायकत्वं दृष्ट्यादेर्मूर्तान्तरगत्यविघातित्वं चेत्यादिनापि साम्यं दधुरित्यर्थः । उपमालंकारः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
न्ने ऽपि स्प ष्ट रे षु त्र
स्व च्छा नि ना री कु ण्ड ले षु
का सा म्यं धु म्ब रा णि
ना तः के र्थ तः ऽपि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.