रम्या इति प्राप्तवतीः पताका
रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः
समं वधूभिर्वलभीर्युवानः ॥
रम्या इति प्राप्तवतीः पताका
रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः
समं वधूभिर्वलभीर्युवानः ॥
रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः
समं वधूभिर्वलभीर्युवानः ॥
मल्लिनाथः
रम्या इति ॥ यस्यां पुरि युवानो रम्या रमणीया इति हेतोः पताकाः प्राप्तवतीः । उत्क्षिप्तध्वजा इत्यर्थः । अन्यत्र रम्या इत्येवं पताकाः प्राप्तवतीः । प्रसिद्धिं गता इत्यर्थः । `पताका वैजयन्त्यां च सौभाग्येऽध्वजेऽपि च`, `इति हेतौ प्रकरणे प्रकारादिसमाप्तिषु` इत्युभयत्रापि विश्वः । विविक्ता विजना विमलाश्व इति हेतो रागं वर्धयन्तीः । `विविक्तौ पूतविजनौ` इत्युभयत्राप्यमरः । नमद्वलीका&#३२; नम्रनीध्राः । `वलीकनीध्रे पटलप्रान्ते` इत्यमरः । अन्यत्र नमन्त्यो वल्यस्त्रिवल्याख्या मध्यरेखा यासां ता नमद्वलीकाः । `नद्यृतश्च` (अष्टाध्यायी ५.४.१५३ ) इति कप्प्रत्ययः । `वली मध्यमरेखोर्मिजीर्णत्वग्गृहदारुषु` इति वैजयन्ती । वलभीः कूटागाराणि । `कूटागारं तु वलभी` इत्यमरः । वधूभिः सममसेवन्त । वधूसहिता असेवन्तेत्यर्थः । अत्र वधूनां वलभीनां च प्रकृतानामेव धर्मसाधर्म्येणौपम्यावगमात् केवलप्रकृतगोचरा तुल्ययोगिता न श्लेषः । तत्र विशेष्यस्यापि श्लिष्टत्वनियमात् । यथाहुः-`प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥` इति
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| र | म्या | इ | ति | प्रा | प्त | व | तीः | प | ता | का |
| रा | गं | वि | वि | क्ता | इ | ति | व | र्ध | य | न्तीः |
| य | स्या | म | से | व | न्त | न | म | द्व | ली | काः |
| स | मं | व | धू | भि | र्व | ल | भी | र्यु | वा | नः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.