क्षितिप्रतिष्ठोपि मुखारविन्दै-
र्वधूजनश्चन्द्रमधश्चकार ।
अतीतनक्षत्रपथानि यत्र
प्रसादशृङ्गाणि वृथाध्यरुक्षत् ॥

मल्लिनाथः क्षितीति ॥ यस्यां पुरि वधूजनः क्षितौ प्रतिष्ठा यस्य स भूमिस्थितोऽपि चन्द्रम् । दिवि स्थितमिति भावः । तत्रापि मुखैरेवारविन्दैरधश्चकारेति विरोधः । स्वलावण्यमहिम्नाऽधरीचकारेति परिहाराद्विरोधालंकारः । अतीतानि नक्षत्रपथमतीतनक्षत्रपथानि । `अत्यादयः क्रान्ताद्यर्थे द्वितीयया` (वा०) इति समासः । “द्विगुप्राप्तापन्ना-` (वा.) इत्यादिना परवल्लिङ्गताप्रतिषेधः । प्रासादशृङ्गाणि वृथा अध्यक्षदधिरोहति स्म । अनधिरुह्यैवाधःकरणादिति भावः । रोहतेर्लुङ् । `शल इगुपधादनिटः क्सः` (अष्टाध्यायी ३.१.४५ ) इति च्लेः क्सादेशः । अत्राधःकरणवाक्यार्थस्य श्लेषविरोधोपजीव्यवैयर्थं हेतुत्वात्संकीर्णः काव्यलिङ्गभेदः
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
क्षि ति प्र ति ष्ठो पि मु खा वि न्दै
र्व धू श्च न्द्र श्च का
ती क्ष त्र था नि त्र
प्र सा शृ ङ्गा णि वृ था ध्य रु क्षत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.