सुगन्धितामप्रतियत्नपूर्वां
बिभ्रन्ति यत्र प्रमदाय पुंसाम् ।
मधूनि वक्त्राणि च कामिनीना-
मामोदकर्मव्यतिहारमीयुः ॥
सुगन्धितामप्रतियत्नपूर्वां
बिभ्रन्ति यत्र प्रमदाय पुंसाम् ।
मधूनि वक्त्राणि च कामिनीना-
मामोदकर्मव्यतिहारमीयुः ॥
बिभ्रन्ति यत्र प्रमदाय पुंसाम् ।
मधूनि वक्त्राणि च कामिनीना-
मामोदकर्मव्यतिहारमीयुः ॥
मल्लिनाथः
सुगन्धितामिति ॥ यत्र पुरि न प्रतियत्नः संस्कारः पूर्वो यस्यास्तामप्रतियत्नपूर्वामकृत्रिमाम् । स्वाभाविकीमित्यर्थः । `प्रतियत्नस्तु संस्कारः` इति वैजयन्ती । शोभनो गन्धो येषां तेषां भावस्तत्ता तां सुगन्धितां सौरभ्यम् । `गन्धस्येत्-` (अष्टाध्यायी ५.४.१३५ ) इतीकारः । विभ्रन्ति विभ्राणानि । `वा नपुंसकस्य` (अष्टाध्यायी ७.१.७९ ) इति नुमागमः । मधूनि मद्यानि कामिनीनां वस्त्राणि च यूनां प्रमदाय प्रीत्यै आमोदकर्मणो वासनाधानस्य व्यतिहारं परस्परकरणमीयुः । अन्योन्यगन्धेनान्योन्यं वासयामासुरित्यर्थः । इणो लिट् । अत्रापि मधूनां वक्राणां च प्रकृतत्वात्तत्पूर्वक एव तुल्ययोगिताभेदः । तेन यूनां मधुवासितवधूवदनपानं वदनवासितगण्डूषपानं च वस्तु व्यज्यते । तेन च निरातङ्कभोगाः पौरा इति गम्यते
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| सु | ग | न्धि | ता | म | प्र | ति | य | त्न | पू | र्वां |
| बि | भ्र | न्ति | य | त्र | प्र | म | दा | य | पुं | साम् |
| म | धू | नि | व | क्त्रा | णि | च | का | मि | नी | ना |
| मा | मो | द | क | र्म | व्य | ति | हा | र | मी | युः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.