चिक्रंसया कृत्रिमपत्त्रिपङ्क्तेः
कपोतपालीषु निकेतनानां ।
मार्जारमप्यातनिश्चलाङ्कं
यस्यां जनः कृत्रिममेव मेने ॥

मल्लिनाथः चिक्रंसयेति ॥ यस्यां पुरि निकेतनानां वेश्मनाम् । `वेश्म सद्म निकेतनम्` इत्यमरः । कपोतान् पक्षिणः पालयन्तीति कपोतपाल्यो विटङ्कापरनामानः स्तम्भाग्रप्रसारिता दारुविशेषाः । `कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्` इत्यमरः । कर्मण्यणि ङीप् । तासु कृत्रिमपत्रिणां दारुमयपक्षिणां पङ्क्तेः । कर्मणि पष्टी । चिक्रंसया क्रमितुमिच्छया। जिघृक्षयेत्यर्थः । क्रमेः सन्नन्तात् `अ प्रत्ययात्` (अष्टाध्यायी ३.३.१०२ ) इत्यकारप्रत्यये टाप् । `स्नुक्रमोरनात्मनेपदनिमित्ते` (अष्टाध्यायी ७.२.३६ ) इतीडागमो न भवति । अत्र क्रमेर्वृत्यादिव्यतिरिक्तार्थेऽपि `अनुपसर्गाद्वा` (१॥३।४३) इति वैकल्पिकस्यात्मनेपदनिमित्तस्यानुपसर्गत्वस्य वैवक्षिकस्य संभवात् । आयतमानतं वा निश्चलमङ्गं यस्य तं मार्जारं बिडालमपि । `ओतुर्बिडालो मार्जारः` इत्यमरः । जनः कृत्रिमं क्रियया निवृत्तमेव मेने । न तु वास्तवमित्यर्थः । `ड्वितः क्रिः` (अष्टाध्यायी ३.३.८८ ) `क्रेर्मन्नित्यम्` (वा०) इति मम्प्रत्ययः । अनेन कृत्रिमाकृत्रिमभेदो दुर्ग्रह इति शिल्पज्ञानातिशयोक्तिः । अत्र कविकल्पितसादृश्यान्मार्जारजनयोः कृत्रिमाकृत्रिमेषु विपरीतमतिवर्णनाद्भ्राशान्तिमदलंकारः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
चि क्रं या कृ त्रि त्त्रि ङ्क्तेः
पो पा ली षु नि के ना नां
मा र्जा प्या नि श्च ला ङ्कं
स्यां नः कृ त्रि मे मे ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.