बृहत्तुलैरपिप्यतुलैर्वतान-
मालापिनद्धैरपि चावितानै ।
रेजे विचित्रैरपि या सचित्रै-
गृहैर्विशालैरपि भूरिशालै ॥
बृहत्तुलैरपिप्यतुलैर्वतान-
मालापिनद्धैरपि चावितानै ।
रेजे विचित्रैरपि या सचित्रै-
गृहैर्विशालैरपि भूरिशालै ॥
मालापिनद्धैरपि चावितानै ।
रेजे विचित्रैरपि या सचित्रै-
गृहैर्विशालैरपि भूरिशालै ॥
मल्लिनाथः
बृहदिति ॥ या पूः बृहत्यस्तुला उपरिस्थाप्यदार्वाधारभूतानि स्तम्भाग्रपीठानि येषु तैः बृहत्तुलैस्तथाप्यतुलैस्तद्रहितैरिति विरोधः । अनुपमैरित्यविरोधः । `तुला माने पलशते सादृश्ये राशिभाण्डयोः । गृहाणां दारुबन्धाय पीठ्याम्` इति हैमः । वितानानामुल्लोचानां मालाभिः पङ्क्तिभिः पिनद्वैराच्छादितैः तथाप्यवितानैस्तदहितैरिति विरोधः । अशून्यरित्यविरोधः । समस्तवस्तुसमृद्धैरित्यर्थः । `अस्त्री वितानमुल्लोचः` `वितानं त्रिषु तुच्छकम्` इत्युभयत्राप्यमरः । विचित्रैरालेख्यरहितैरपि सचित्रैः तत्सहितैरिति विरोधः । विचित्रैरद्भुतैरिति परिहारः । `आलेख्याश्चर्ययोश्चित्रम्` इत्यमरः । विगताः शाला गृहैकदेशा येषां तानि । `शाला गृहे तरुस्कन्धे शाखागारैकदेशयोः` इति विश्वः । तैः विशालैरपि भूरिशालैः प्रचुरगृहैकदेशविशिष्टैरिति विरोधः । विशालैः पृथुलैरित्यविरोधः ।&#३२; विशालं पृथुलं महत्` इत्यमरः । `वैः शालच्छङ्कटचौ` (अष्टाध्यायी ५.२.२८ ) इति शालच्प्रत्ययः । गृहै रेजे । अपिरयं सर्वत्र विरोधे । विरुद्धवदाभासाद्विरोधालंकारः । `विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः` इति काव्यप्रकाशलक्षणात्
छन्दः
इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| बृ | ह | त्तु | लै | र | पि | प्य | तु | लै | र्व | ता | न |
| मा | ला | पि | न | द्धै | र | पि | चा | वि | ता | नै | |
| रे | जे | वि | चि | त्रै | र | पि | या | स | चि | त्रै | |
| गृ | है | र्वि | शा | लै | र | पि | भू | रि | शा | लै | |
| त | त | ज | ग | ग | |||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.