गोपानसीषु क्षणमास्थिताना-
मालम्बिभिश्चन्द्रकाणां कलापैः ।
हरिन्मणिश्यामतृणाभिरामै-
गृहाणि नीध्रैरिव यत्र रेजुः ॥

मल्लिनाथः गोपानसीष्विति ॥ यत्र पुरि गृहाणि गोपानसीषु वलभीषु । छादनाधारेषु वंशपञ्जरेष्वित्यर्थः । अत एव `गोपानसी तु वलभी छादने वक्रदारुणि` इत्यत्र पटलाधारवंशपञ्जरे इत्याह स्वामी । क्षणमीषत्कालम् । अत्यन्तसंयोगे द्वितीया । आस्थितानामासीनानां चन्द्रकाः मेचकाः। `समौ चन्द्रकमेचको` इत्यमरः । तद्वतां चन्द्रकिणां मयूराणामालम्बिभिर्लम्बमानैः कलापैर्बहैं: । `कलापो भूषणे बर्हे` इत्यमरः । हरिन्मणयो मरकतानि । `गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः` इत्यमरः । तद्वच्छयामैस्तृणैरभिरामाणि । हरिततृणमयानीत्यर्थः । तैर्नीध्रैः पटलप्रान्तैरिव रेजुः । `वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः` इत्यमरः । छादनपर्यायौ पटलच्छदी। छद्यञ्चलवाचिनी वलीकनीधे । छदेराधारो वंशपञ्जरो गोपानसीति विवेकः । अत एव हरितत्वालम्बनादिगुणक्रियानिमित्तत्वान्नीध्रैरिवेति जातिस्वरूपोत्प्रेक्षा
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
गो पा सी षु क्ष मा स्थि ता ना
मा म्बि भि श्च न्द्र का णां ला पैः
रि न्म णि श्या तृ णा भि रा मै
गृ हा णि नी ध्रै रि त्र रे जुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.