चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामणीयसीभिः । अनेकधातुच्छुरिताश्मराशेर्गोवनर्धनस्याकृतिरन्वकारि ॥
चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामणीयसीभिः । अनेकधातुच्छुरिताश्मराशेर्गोवनर्धनस्याकृतिरन्वकारि ॥
मल्लिनाथः
चित्राभिरिति ॥ अस्य हरेरुपयूर्ध्वदेशे मौलिभाजां मुकुटगतानां मणीनामनणीयसीभिर्महतीभिश्चित्राभिरनेकवर्णाभिर्भाभिः प्रभाभिः कर्त्रीभिः । `स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः` इत्यमरः । सान्तपक्षे `भोभगो-` (अष्टाध्यायी ८.३.१७ ) इत्यादिना रोर्यकारे तस्य `हलि सर्वेषाम्` (अष्टाध्यायी ८.३.२२ ) इति लोपः। अनेकैर्धातुभिर्गैरिकादिभिश्छुरितानां रूषितानामश्मनां मणीनां राशिः समूहो यस्य तस्य गोवर्धनाख्यपर्वतस्याकृतिरन्वकार्यनुकृता । तत्सादृश्यमभाजीत्यर्थः । पूर्णोपमेयम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.