यस्यामतिश्लक्षणतया गृहेषु
विधातुमालेख्यमशुक्नुवन्तः ।
चक्रुर्युवानः प्रतिबिम्बिताङ्गाः
सजीवचित्रा इव रत्नभित्तीः ॥

मल्लिनाथः यस्यामिति ॥ यस्यां पुरि गृहेष्वतिश्लक्ष्णतया रत्नभित्तीनामतिस्निग्धतया आलेख्यं चित्रं विधातुं निर्मातुमशक्नुवन्तो युवानः प्रतिबिम्बिताङ्गाः स्वयं तासु संक्रान्तमूर्तयः सन्तो रत्नभित्तीः सजीवचित्राः सचेतनचित्रवतीरिव चकुरित्युत्प्रेक्षा
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२
स्या ति श्ल क्ष या गृ हे षु
वि धा तु मा ले ख्य शु क्नु न्तः
क्रु र्यु वा नः प्र ति बि म्बि ता ङ्गाः
जी चि त्रा त्न भि त्तीः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.