रतौ ह्रिया यत्र निशाम्यदीपा-
ञ्जालगताभ्योऽधिगृहं गृहिण्यः ।
बिभ्युर्बिडालेक्षणभीषणाभ्यो
वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥
रतौ ह्रिया यत्र निशाम्यदीपा-
ञ्जालगताभ्योऽधिगृहं गृहिण्यः ।
बिभ्युर्बिडालेक्षणभीषणाभ्यो
वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥
ञ्जालगताभ्योऽधिगृहं गृहिण्यः ।
बिभ्युर्बिडालेक्षणभीषणाभ्यो
वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥
मल्लिनाथः
रताविति ॥ यत्र पुरि गृहेष्वधिगृहम् । विभक्त्यर्थेऽव्ययीभावः । गृहिण्यः कुलाङ्गनाः अत एव रतौ रतिकाले ह्रिया दीपान्निशाम्य निर्वाप्य । शमेर्मित्वाद्ध्रस्वादेशाभावश्चिन्त्यः । जालागताभ्यो गवाक्षमार्गप्रविष्टाभ्यः । `जालं गवाक्ष आनायः` इति विश्वः । विदूरात् प्रभवन्तीति वैदूर्याणि बालवायजानि मणयः “वैदूर्यं बालवायजम्` इति विश्वः । `विदूराञ्ञ्यः` (अष्टाध्यायी ४.३.८४ ) इति ञ्यप्रत्ययः । अत्र विदूरशब्दो बालवायस्यादेशः पर्यायो वा तत्रोपचारितो वा । तेन बालवायाद्गिरेरसौ प्रभवति न विदूरान्नगरात् । तत्र तु संस्क्रियत इत्याक्षेपः प्रयुक्तः । यदुक्तम्`बालवायो विदूरं च प्रकृत्यन्तरमेव वा । न वै तत्रैति चेxयाज्जित्वरीव्रदुपाचरेत् ॥` इति तेषां कुड्येषु भित्तिषु । संक्रान्ताभ्य इति शेषः । अत एव तच्छायापत्त्या पैङ्गल्याद्बिडालेक्षणवद्भीषयन्ते इति भीषणाभ्यो भयंकराभ्यः । नन्द्यादित्वात्कर्तरि ल्युप्रत्यये टाप् । शशिद्युतिभ्यो बिभ्युर्भीताः । मौग्ध्यादिति भावः । विभेतेर्लिट् । अत्र लज्जावारणाय दीपनिर्वापणे न केवलं तदसिद्धिः प्रत्युत भयं चोत्पन्नमित्यनर्थोत्पत्तिरूपो विषमभेदः । `विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना या स्याद्विपमालंकृतिर्मता ॥` इति लक्षणात्
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| र | तौ | ह्रि | या | य | त्र | नि | शा | म्य | दी | पा |
| ञ्जा | ल | ग | ता | भ्यो | ऽधि | गृ | हं | गृ | हि | ण्यः |
| बि | भ्यु | र्बि | डा | ले | क्ष | ण | भी | ष | णा | भ्यो |
| वै | दू | र्य | कु | ड्ये | षु | श | शि | द्यु | ति | भ्यः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.