सावर्ण्यभाजां प्रतिमागतानां
लक्ष्यैः स्मरपाण्डुतयाङ्गनानाम् ।
यस्यां कपोलैः कलधौतधाम-
स्तम्भेषु भेजे मणिदर्पणश्रीः ॥
सावर्ण्यभाजां प्रतिमागतानां
लक्ष्यैः स्मरपाण्डुतयाङ्गनानाम् ।
यस्यां कपोलैः कलधौतधाम-
स्तम्भेषु भेजे मणिदर्पणश्रीः ॥
लक्ष्यैः स्मरपाण्डुतयाङ्गनानाम् ।
यस्यां कपोलैः कलधौतधाम-
स्तम्भेषु भेजे मणिदर्पणश्रीः ॥
मल्लिनाथः
सावर्ण्येति ॥ यस्यां पुरि कलधौतधामस्तम्भेषु हेमागारस्तम्भेषु । `कलधौतं रौप्यहेम्नोः` इति विश्वः । प्रतिमागतानां प्रतिविम्बगतानां सावर्ण्यभाजाम् । तत्सावर्ण्यादगृहीतभेदानामित्यर्थः । अत एव सामान्यालंकारः । `सामान्यं गुणसाम्येन यत्र वस्त्वन्तरकता` इति लक्षणात् । अङ्गनानां स्मरापाण्डुतया लक्ष्यैर्विभिनवर्णत्वाद्भेदेन गृह्यमाणैरित्यर्थः । कपोलैर्मणिदर्पणानां स्फटिकमुकुराणां श्रीरिव श्रीः भेजे प्राप्ता इति निदर्शना । सा चोक्तसामान्यप्रसादलब्धेति तेनास्याः संकरः
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| सा | व | र्ण्य | भा | जां | प्र | ति | मा | ग | ता | नां |
| ल | क्ष्यैः | स्म | र | पा | ण्डु | त | या | ङ्ग | ना | नाम् |
| य | स्यां | क | पो | लैः | क | ल | धौ | त | धा | म |
| स्त | म्भे | षु | भे | जे | म | णि | द | र्प | ण | श्रीः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.