कान्तेन्दुकान्तोपलकुट्टिमेषु
प्रतिक्षपं हर्म्यतलेषु यत्र ।
उच्चैरधपातिपयोमुचोऽपि
समूहमूहुः पययसां प्रणाल्यः ॥

मल्लिनाथः कान्तेति ॥ यत्र पुरि क्षपासु रात्रिषु प्रतिक्षपम् । विभक्त्यर्थेऽव्ययीभावः । कान्तानि रम्याणीन्दुकान्तोपलानां चन्द्रकान्तमणीनां कुट्टिमानि बद्धभूमयो येषु तेषु । `कुट्टिमं बद्धभूमिः स्यात्` इति हलायुधः । हर्म्यतलेपूच्चैरुन्नताः प्रणाल्यो जलमार्गाः । `द्वयोः प्रणाली पयसः पदव्याम्` इत्यमरः । अधःपातिनोऽधश्चराः पयोमुचो मेघा यासां ताः । अधःकृतमेघमण्डलत्वात् अज्ञातवृष्टिपाता अपीत्यर्थः । विरोधालंकारः । पयसां समूहं पयःपूरं मुहुर्वहन्ति स्म । चन्द्रकान्तनिप्यन्दैरिति भावः । वहेर्लिट् `वचिस्वपि-` (अष्टाध्यायी ६.१.१५ ) इत्यादिना संप्रसारणम् । अत्र सौधानां प्रणालीनां च तादृगौन्नत्यपयःपूरासंबन्धेऽपि तत्संबन्धोक्त्यातिशयोक्तिः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
का न्ते न्दु का न्तो कु ट्टि मे षु
प्र ति क्ष पं र्म्य ले षु त्र
च्चै पा ति यो मु चो ऽपि
मू मू हुः सां प्र णा ल्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.